|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.144. अध्यायः 144
Mahabharata - Adi Parva - Chapter Topics
कुमाराणां अस्त्रशिक्षापरीक्षार्थं रङ्गनिर्माणम्॥ 1 ॥ शिक्षादर्शनार्थं भीष्मादीनां प्रेक्षागारप्रवेशः॥ 2 ॥ युधिष्ठिरादीनां परीक्षा॥ 3 ॥ भीमदुर्योधनयोः गदायुद्धपरीक्षा॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-144-0x(855)(6539)
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत।
दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम्॥ 1-144-1(6540)
कृपस्य सोमदत्तस्य वाह्लीकस्य च धीमतः।
गाङ्गेयस्य च सान्निध्ये व्यासस्य विदुरस्य च॥ 1-144-2(6541)
राजन्संप्राप्तविद्यास्ते कुमाराः कुरुसत्तम।
ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव॥ 1-144-3(6542)
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना। 1-144-4(6543)
धृतराष्ट्र उवाच।
भारद्वाज महत्कर्म कृतं ते द्विजसत्तम॥ 1-144-4x(856)
यदानुमन्यसे कालं यस्मिन्देशे यथायथा।
तथातथा विधानाय स्वयमाज्ञापयस्व माम्॥ 1-144-5(6544)
स्पृहयाम्यद्य निर्वेदान्पुरुषाणां सचक्षुषाम्।
अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान्॥ 1-144-6(6545)
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा।
न हीदृशं प्रियं मन्ये भविता धर्मवत्सल॥ 1-144-7(6546)
ततो राजानमामन्त्र्य विदुरानुमतोपि हि।
भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम्॥ 1-144-8(6547)
समामवृक्षां निर्गुलमामुदक्प्रवणसंस्थिताम्।
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते॥ 1-144-9(6548)
अवघुष्टं पुरं चापि तदर्थं भरतर्षभ।
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि॥ 1-144-10(6549)
प्रेक्षागारं सुविहितं चक्रस्ते तस्य शिल्पिनः।
रक्षां सर्वायुधोपेतां स्त्रीणां चैव नरर्षभ॥ 1-144-11(6550)
मञ्चांश्च कारयामासुर्यत्र जानपदा जनाः।
विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः॥ 1-144-12(6551)
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा।
`सान्तःपुरः सहामात्यो व्यासस्यानुमते तदा।'
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम्॥ 1-144-13(6552)
`बाह्लीकं सोमदत्तं च भूरिश्रवसमेव च।
कुरूनन्यांश्च सचिवानादाय नगराद्बहिः॥ 1-144-14(6553)
रङ्गभूमिं समासाद्य ब्राह्मणैः सहितो नृपः॥' 1-144-15(6554)
मुक्ताजालपरिक्षिप्तं वैदूर्यममिशोभितम्।
शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत्॥ 1-144-16(6555)
गान्धारी च महाभागा कुन्ती च जयतां वर।
स्त्रियश्च राज्ञः सर्वास्ताः सप्रेष्याः सपरिच्छदाः॥ 1-144-17(6556)
हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा।
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम्॥ 1-144-18(6557)
दर्शनेप्सुः समभ्यागात्कुमाराणां कृतास्त्रताम्।
क्षणेनैकस्थतां तत्र दर्शनेप्सुर्जगाम ह॥ 1-144-19(6558)
प्रवादितैश्च वादित्रैर्जनकौतूहलेन च।
महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा॥ 1-144-20(6559)
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान्।
शुक्लकेशः सितश्मश्रुः शुक्लाल्यानुलेपनः॥ 1-144-21(6560)
रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह।
नभो जलधरैर्हीनं साङ्गारक इवांशुमान्॥ 1-144-22(6561)
व्यासस्यानुमते चक्रे बलिं बलवतां वरः।
ब्राह्मणांस्तु सुमन्त्रज्ञान्कारयामास मङ्गलम्॥ 1-144-23(6562)
`सुवर्णमणिरत्नानि वस्त्राणि विविधानि च।
प्रददौ दक्षिणां राजा द्रोणाय च कृपाय च॥' 1-144-24(6563)
सुखपुण्याहघोषस्य पुण्यस्य समनन्तरम्।
विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः॥ 1-144-25(6564)
ततो बद्धाङ्गुलित्राणा बद्धकक्ष्या महारथाः।
बद्धथूणाः सधनुषो विविशुर्भरतर्षभाः॥ 1-144-26(6565)
`रङ्गमध्ये स्थितं द्रोणमभिवाद्य नरर्षभाः।
चक्रुः पूजां यथान्यायं द्रोणस्य च कृपस्य च॥ 1-144-27(6566)
आशीर्भिश्च प्रयुक्ताभिः सर्वे संहृष्टमानसाः।
अभिवाद्य पुनः शस्त्रान्बलिपुष्पैः समर्चितान्॥ 1-144-28(6567)
रक्तचन्दनसंमिश्रैः स्वयमर्चन्ति कौरवाः।
रक्तचन्दनदिग्धाश्च रक्तमाल्यानुधारिणः॥ 1-144-29(6568)
सर्वे रक्तपताकाश्च सर्वे रक्तान्तलोचनाः।
द्रोणेन समनुज्ञाता गृह्य शस्त्रं परन्तपाः॥ 1-144-30(6569)
धनूंषि पूर्व संगृह्य तप्तकाञ्चनभूषिताः।
सज्यानि विविधाकाराः शरैः सन्धाय कौरवा॥ 1-144-31(6570)
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयन्॥' 1-144-32(6571)
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुनरोगमाः।
चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम्॥ 1-144-33(6572)
`केषांचित्तत्र माल्येषु शरा निपतिता नृप।
केषांचित्पुष्पमुकुटे निपतन्ति स्म सायकाः॥ 1-144-34(6573)
केचिल्लक्ष्याणि विविधैर्बाणैराहितलक्षणैः।
बिभिदुर्लाघवोत्सृष्टैर्गुरूणि च लघूनि च॥' 1-144-35(6574)
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे।
मनुजा धृष्टमपरे वीक्षाञ्चक्रुः सुविस्मिताः॥ 1-144-36(6575)
ते स्म लक्ष्याणि बिभिदुर्बाणैर्नामाङ्कशोभितैः।
विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम्॥ 1-144-37(6576)
तत्कुमारबलं तत्र गृहीतशरकार्मुकम्।
गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन्॥ 1-144-38(6577)
सहसा चुक्रुशुश्चान्ये नराः शतसहस्रशः।
विस्मयोत्फुल्लनयनाः साधुसाध्विति भारत॥ 1-144-39(6578)
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत्।
गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः॥ 1-144-40(6579)
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः।
त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु॥ 1-144-41(6580)
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम्।
ददृशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणोः॥ 1-144-42(6581)
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ।
अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ॥ 1-144-43(6582)
बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ।
बृंहन्तौ वासिताहेतोः समदाविव कुञ्जरौ॥ 1-144-44(6583)
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ।
चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ॥ 1-144-45(6584)
विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः।
न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम्॥ ॥ 1-144-46(6585)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः॥ 144 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-144-19 दर्शनेप्सुः जन इति शेषः॥ 1-144-22 अंशुमान् चन्द्रः॥ 1-144-38 गन्धर्वनगराकारमद्भुतरूपम्॥ 1-144-43 संहृष्टौ परस्परं जेतुं सकामौ॥ 1-144-44 बृंहन्तौ शब्दं कुर्वाणौ। वासिता हस्तिनी॥ 1-144-45 मण्डलगताबलातचक्रवद्भ्राम्यमाणगदापरिवेषान्तर्गतौ॥ 1-144-46 पाण्डवारणिः कुन्ती॥ चतुश्चत्वारिंशदधिकशततमोऽध्यायः॥ 144 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|