(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.144. अध्यायः 144
Mahabharata - Adi Parva - Chapter Topics
कुमाराणां अस्त्रशिक्षापरीक्षार्थं रङ्गनिर्माणम्॥ 1 ॥ शिक्षादर्शनार्थं भीष्मादीनां प्रेक्षागारप्रवेशः॥ 2 ॥ युधिष्ठिरादीनां परीक्षा॥ 3 ॥ भीमदुर्योधनयोः गदायुद्धपरीक्षा॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-144-0x(855)(6539)
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत।
दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम्॥ 1-144-1(6540)
कृपस्य सोमदत्तस्य वाह्लीकस्य च धीमतः।
गाङ्गेयस्य च सान्निध्ये व्यासस्य विदुरस्य च॥ 1-144-2(6541)
राजन्संप्राप्तविद्यास्ते कुमाराः कुरुसत्तम।
ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव॥ 1-144-3(6542)
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना। 1-144-4(6543)
धृतराष्ट्र उवाच।
भारद्वाज महत्कर्म कृतं ते द्विजसत्तम॥ 1-144-4x(856)
यदानुमन्यसे कालं यस्मिन्देशे यथायथा।
तथातथा विधानाय स्वयमाज्ञापयस्व माम्॥ 1-144-5(6544)
स्पृहयाम्यद्य निर्वेदान्पुरुषाणां सचक्षुषाम्।
अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान्॥ 1-144-6(6545)
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा।
न हीदृशं प्रियं मन्ये भविता धर्मवत्सल॥ 1-144-7(6546)
ततो राजानमामन्त्र्य विदुरानुमतोपि हि।
भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम्॥ 1-144-8(6547)
समामवृक्षां निर्गुलमामुदक्प्रवणसंस्थिताम्।
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते॥ 1-144-9(6548)
अवघुष्टं पुरं चापि तदर्थं भरतर्षभ।
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि॥ 1-144-10(6549)
प्रेक्षागारं सुविहितं चक्रस्ते तस्य शिल्पिनः।
रक्षां सर्वायुधोपेतां स्त्रीणां चैव नरर्षभ॥ 1-144-11(6550)
मञ्चांश्च कारयामासुर्यत्र जानपदा जनाः।
विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः॥ 1-144-12(6551)
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा।
`सान्तःपुरः सहामात्यो व्यासस्यानुमते तदा।'
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम्॥ 1-144-13(6552)
`बाह्लीकं सोमदत्तं च भूरिश्रवसमेव च।
कुरूनन्यांश्च सचिवानादाय नगराद्बहिः॥ 1-144-14(6553)
रङ्गभूमिं समासाद्य ब्राह्मणैः सहितो नृपः॥' 1-144-15(6554)
मुक्ताजालपरिक्षिप्तं वैदूर्यममिशोभितम्।
शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत्॥ 1-144-16(6555)
गान्धारी च महाभागा कुन्ती च जयतां वर।
स्त्रियश्च राज्ञः सर्वास्ताः सप्रेष्याः सपरिच्छदाः॥ 1-144-17(6556)
हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा।
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम्॥ 1-144-18(6557)
दर्शनेप्सुः समभ्यागात्कुमाराणां कृतास्त्रताम्।
क्षणेनैकस्थतां तत्र दर्शनेप्सुर्जगाम ह॥ 1-144-19(6558)
प्रवादितैश्च वादित्रैर्जनकौतूहलेन च।
महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा॥ 1-144-20(6559)
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान्।
शुक्लकेशः सितश्मश्रुः शुक्लाल्यानुलेपनः॥ 1-144-21(6560)
रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह।
नभो जलधरैर्हीनं साङ्गारक इवांशुमान्॥ 1-144-22(6561)
व्यासस्यानुमते चक्रे बलिं बलवतां वरः।
ब्राह्मणांस्तु सुमन्त्रज्ञान्कारयामास मङ्गलम्॥ 1-144-23(6562)
`सुवर्णमणिरत्नानि वस्त्राणि विविधानि च।
प्रददौ दक्षिणां राजा द्रोणाय च कृपाय च॥' 1-144-24(6563)
सुखपुण्याहघोषस्य पुण्यस्य समनन्तरम्।
विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः॥ 1-144-25(6564)
ततो बद्धाङ्गुलित्राणा बद्धकक्ष्या महारथाः।
बद्धथूणाः सधनुषो विविशुर्भरतर्षभाः॥ 1-144-26(6565)
`रङ्गमध्ये स्थितं द्रोणमभिवाद्य नरर्षभाः।
चक्रुः पूजां यथान्यायं द्रोणस्य च कृपस्य च॥ 1-144-27(6566)
आशीर्भिश्च प्रयुक्ताभिः सर्वे संहृष्टमानसाः।
अभिवाद्य पुनः शस्त्रान्बलिपुष्पैः समर्चितान्॥ 1-144-28(6567)
रक्तचन्दनसंमिश्रैः स्वयमर्चन्ति कौरवाः।
रक्तचन्दनदिग्धाश्च रक्तमाल्यानुधारिणः॥ 1-144-29(6568)
सर्वे रक्तपताकाश्च सर्वे रक्तान्तलोचनाः।
द्रोणेन समनुज्ञाता गृह्य शस्त्रं परन्तपाः॥ 1-144-30(6569)
धनूंषि पूर्व संगृह्य तप्तकाञ्चनभूषिताः।
सज्यानि विविधाकाराः शरैः सन्धाय कौरवा॥ 1-144-31(6570)
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयन्॥' 1-144-32(6571)
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुनरोगमाः।
चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम्॥ 1-144-33(6572)
`केषांचित्तत्र माल्येषु शरा निपतिता नृप।
केषांचित्पुष्पमुकुटे निपतन्ति स्म सायकाः॥ 1-144-34(6573)
केचिल्लक्ष्याणि विविधैर्बाणैराहितलक्षणैः।
बिभिदुर्लाघवोत्सृष्टैर्गुरूणि च लघूनि च॥' 1-144-35(6574)
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे।
मनुजा धृष्टमपरे वीक्षाञ्चक्रुः सुविस्मिताः॥ 1-144-36(6575)
ते स्म लक्ष्याणि बिभिदुर्बाणैर्नामाङ्कशोभितैः।
विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम्॥ 1-144-37(6576)
तत्कुमारबलं तत्र गृहीतशरकार्मुकम्।
गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन्॥ 1-144-38(6577)
सहसा चुक्रुशुश्चान्ये नराः शतसहस्रशः।
विस्मयोत्फुल्लनयनाः साधुसाध्विति भारत॥ 1-144-39(6578)
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत्।
गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः॥ 1-144-40(6579)
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः।
त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु॥ 1-144-41(6580)
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम्।
ददृशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणोः॥ 1-144-42(6581)
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ।
अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ॥ 1-144-43(6582)
बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ।
बृंहन्तौ वासिताहेतोः समदाविव कुञ्जरौ॥ 1-144-44(6583)
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ।
चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ॥ 1-144-45(6584)
विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः।
न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम्॥ ॥ 1-144-46(6585)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः॥ 144 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-144-19 दर्शनेप्सुः जन इति शेषः॥ 1-144-22 अंशुमान् चन्द्रः॥ 1-144-38 गन्धर्वनगराकारमद्भुतरूपम्॥ 1-144-43 संहृष्टौ परस्परं जेतुं सकामौ॥ 1-144-44 बृंहन्तौ शब्दं कुर्वाणौ। वासिता हस्तिनी॥ 1-144-45 मण्डलगताबलातचक्रवद्भ्राम्यमाणगदापरिवेषान्तर्गतौ॥ 1-144-46 पाण्डवारणिः कुन्ती॥ चतुश्चत्वारिंशदधिकशततमोऽध्यायः॥ 144 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.